|
|
 |
 |
|
|
१४ अश्वमेधिकपर्व.jpg)
॥ श्रीः ॥
14.101. अध्यायः 101
Mahabharata - Ashvamedhika Parva - Chapter Topics
कृष्णेन युधिष्ठिरंप्रति जलदानान्नदानफलप्रशंसनम्॥ 1 ॥ तथाऽतिथिलक्षणकथनपूर्वकं तत्पूजाफलकथनम्॥ 2 ॥
Mahabharata - Ashvamedhika Parva - Chapter Text
वैशम्पायन उवाच।
श्रुत्वा यमपुराध्वानं जीवानां गमनं तथा।
धर्मपुत्रः प्रहृष्टात्मा केशवं पुनरब्रवीत्॥ 14-101-1(95678)
देवदेवेश दैत्यघ्न ऋषिसङ्घैरभिष्टुत।
भगवन्भवहञ्श्रीमन्सहस्रादित्यसन्निभ॥ 14-101-2(95679)
सर्वसंभव धर्मज्ञ सर्वधरमप्रवर्तक।
सर्वदानफलं सौम्य कथयस्व ममाच्युत॥ 14-101-3(95680)
दानं देयं कथं कृष्ण कीदृशाय द्विजाय वै।
कीदृशं वा तपः कृत्वा तत्फलं कुत्र भुज्यते॥ 14-101-4(95681)
एवमुक्तो हृषीकेशो धर्मपुत्रेण धीमता।
उवाच धर्मपुत्राय पुण्यान्धर्मान्महोदयान्॥ 14-101-5(95682)
शृणुष्वावहितो राजन्पूतं पापघ्नमुत्तमम्।
सर्वदानफलं सौम्य न श्राव्यं पापकर्मणम्॥ 14-101-6(95683)
यच्छ्रुत्वा पुरुषः स्त्री वा नष्टपापः समाहितः।
तत्क्षणात्पूततां याति पापकर्मरतोपि वा॥ 14-101-7(95684)
एकाहमपि कौन्तेय भूमावुत्पादितं जलम्।
सप्त तारयते पूर्वान्वितृष्णा यत्र गौर्भवेत्॥ 14-101-8(95685)
पानीयं परमं लोके जीवानां जीवनं स्मृतम्।
पानीयस्य प्रदानेन तृप्तिर्भवति पाण्डव।
पानीयस्य गुणा दिव्याः परलोके गुणावहाः॥ 14-101-9(95686)
तत्र पुष्पोदकी नाम नदी परमपावनी।
कामान्ददाति राजेन्द्र तोयदानां यमालये॥ 14-101-10(95687)
शीतलं सलिलं ह्यत्र ह्यक्षय्यममृतोपमम्।
शीततोयप्रदादॄणां भवेन्नित्यं सुखावहम्॥ 14-101-11(95688)
ये चाप्यतोयदातारः पूयस्तेषां विधीयते। 14-101-12(95689)
प्रणश्यत्यंबुपानेन बुभुक्षा च युधिष्ठिर।
तृपीषस्य न चान्नेन पिपासाऽपि प्रणश्यति।
तस्मात्तोयं सदा देयं तृषितेभ्यो विजानता। 14-101-13(95690)
अग्नेर्मूर्तिः क्षितेर्योनिरमृतस्य स संभवः।
अतोंभः सर्वभूतानां मूलमित्युच्यते बुधैः॥ 14-101-14(95691)
अद्भिः सर्वाणि भूतानि जीवन्ति प्रभवन्ति च।
तस्मात्सर्वेषु दानेषु तोयदानं विशिष्यते॥ 14-101-15(95692)
सर्वदानतपोयज्ञैर्यत्प्राप्यं फलमुत्तमम्।
तत्सर्वं तोयदानेन प्राप्यते नात्र संशयः॥ 14-101-16(95693)
ये प्रयच्छन्ति विप्रेभ्यस्त्वन्नदातं सुसंस्कृतम्।
तैस्तु दत्ताः स्वयं प्राणा भवन्ति भरतर्षभ॥ 14-101-17(95694)
अन्नाद्रक्तं च शुक्लं च अन्ने जीवः प्रतिष्ठितः।
इन्द्रियाणि च बुद्धिश्च पुष्णन्त्यन्नेन नित्यशः।
अन्नहीनानि सीदन्ति सर्वभूतानि पाण्डव॥ 14-101-18(95695)
तेजो बलं च रूपं च सत्वं वीर्यं धृतिर्द्युतिः।
ज्ञानं मेधा तथाऽऽयुश्च सर्वमन्ने प्रतिष्ठितम्॥ 14-101-19(95696)
देवमानवर्तिर्यक्षु सर्वलोकेषु सर्वदा।
सर्वकालं हि सर्वेषां सर्वमन्ने प्रतिष्ठितम्॥ 14-101-20(95697)
अन्नं प्रजापते रूपमन्नं प्रजननं स्मृतम्।
सर्वभूतमयं चान्नं जीवश्चान्नमयः स्मृतः॥ 14-101-21(95698)
अन्नेनाधिष्ठितः प्राण अपानो व्यान एव च।
उदानश्च समानश्च धारयन्ति शरीरिणम्॥ 14-101-22(95699)
शयनोत्थानगमनग्रहणाकर्षणानि च
सर्वसत्वकृतं क्रम चान्नादेव प्रवर्तते॥ 14-101-23(95700)
चतुर्विधानि भूतानि जङ्गमानि स्थिराणि च।
अन्नाद्भवन्ति राजेन्द्र सृष्टिरेषा प्रजापतेः॥ 14-101-24(95701)
विद्यास्थानानि सर्वाणि सर्वयज्ञाश्च पावनाः।
अन्नाद्यस्मात्प्रवर्तन्ते तस्मादन्नं परं स्मृतम्॥ 14-101-25(95702)
देवा रुद्रादयः सर्वे पितरोऽप्यग्नयस्तथा।
यस्मादन्नेन तुष्यन्ति तस्मादन्नं विशिष्यते॥ 14-101-26(95703)
यस्मादन्नात्प्रजाः सर्वाः कल्पेकल्पेऽसृजत्प्रभुः।
तस्मादन्नात्परं दानं न भूतं न भविष्यति॥ 14-101-27(95704)
यस्मादन्नात्प्रवर्तन्ते धर्मार्थौ काम एव च।
तस्मादन्नात्परं दानं नामुत्रेह च पाण्डव॥ 14-101-28(95705)
यक्षरक्षोग्रहा नागा भूतान्यन्ते च दानवाः।
तुष्यन्त्यन्नेन यस्मात्तु तस्मादन्नं परं भवेत्॥ 14-101-29(95706)
परान्नमुपभुञ्जनो यत्कर्म कुरुते शुभम्।
तच्छुभस्यैकभागस्तु कर्तुर्भवति भारत॥ 14-101-30(95707)
अन्नदस्य त्रयो भागा भन्ति पुरुषर्षभ।
तस्यादन्नं प्रदातव्यं ब्राह्मणेभ्यो विशेषतः॥ 14-101-31(95708)
ब्राह्मणाय दरिद्राय योऽन्नं संवत्सरं नृप।
श्रोत्रियाय प्रयच्छेद्वै पाकभेदविवर्जितः॥ 14-101-32(95709)
डंभानृतविमुक्तस्तु परां भक्तिमुपागतः।
स्वधर्मेणार्जितफलं तस्य पुण्यफलं शृणु॥ 14-101-33(95710)
शतवर्षसहस्राणि कामगः कामरूपधृत्।
मोदतेऽमरलोकस्थः पूज्यमानोप्सरोगणैः।
ततश्चापि च्युतः कालान्नरलोके द्विजो भवेत्॥ 14-101-34(95711)
अग्नभिक्षां च यो दद्याद्दरिद्राय द्विजातये।
षण्मासान्वार्षिकं श्राद्दं तस्य पुण्यफलं शृणु॥ 14-101-35(95712)
गोसहस्रप्रदानेन यत्पुण्यं समुदाहृतम्।
तत्प्रण्यफलमाप्नोति नरो वै नात्र संशयः॥ 14-101-36(95713)
अथ संवत्सरं दद्यादग्रभिक्षामयाचते।
प्रच्छद्यैव स्वयं नीत्वा तस्य पुण्यफलं शृणु॥ 14-101-37(95714)
कपिलानां सहस्रैस्तु यद्देयं पुण्यमुच्यते।
तत्सर्वमखिलं प्राप्य शक्रलोके महीयते॥ 14-101-38(95715)
स शक्रभवने रम्ये र्षिकोटिशतं नृप।
यथाकामं महातेजाः क्रीडत्यप्सरसांगणैः॥ 14-101-39(95716)
अन्नं च यस्तु वै दद्याद्द्विजाय नियतव्रतः।
दशवर्षामि राजेन्द्र तस्य पुण्यफलं शृणु॥ 14-101-40(95717)
कपिला शतसहस्रस्य विधिदत्तस्य यत्फलम्।
तत्पुण्यफलमासाद्य पुरन्दरपुरं व्रजेत्॥ 14-101-41(95718)
स शक्रभवने रम्ये कामरूपी यथासुखम्।
शतकोटिसमा राजन्क्रीडतेऽमरपूजितः॥ 14-101-42(95719)
शक्रलोकावतीर्णश्च इह लोके महाद्युतिः।
चतुर्वेदी द्विजः श्रीमाञ्जायते राजपूजितः॥ 14-101-43(95720)
अध्वश्रान्ताय विप्राय क्षुधितायान्नकाङ्क्षिणे।
देशकालाभियाताय दीयते पाण्डुनन्दन॥ 14-101-44(95721)
याचतेऽन्नं न दद्याद्यो विद्यामाने धनागमे।
स लुब्धो नरकं याति कृमीणां कालसूत्रकम्॥ 14-101-45(95722)
तत्र नरके घोरे लोभमोहविचेतनः।
दशरव्षसहस्राणि क्लिश्यते वेदनार्दितः॥ 14-101-46(95723)
तस्माच्च नरकान्मुक्तः कालेन महता हि सः।
दरिद्रो मानुषे लोके चण्डालेष्वपि जायते। 14-101-47(95724)
यस्तु पांसुलपादश्च दूराध्वश्रमकर्शितः।
क्षुत्पिपासाश्रमश्रान्त आर्तः खिन्नगतिर्द्विजः॥ 14-101-48(95725)
पृच्छन्वै ह्यन्नदातारं गृहमभ्येत्य याचयेत्।
तं पूजयेत्तु यत्नेन सोऽतिथिः स्वर्गसंक्रमः।
तस्मिंस्तुष्टे नरश्रेष्ठ तुष्टाः स्युः सर्वदेवताः॥ 14-101-49(95726)
न तथा हविषा होमैर्न पुष्पैर्नानुलेपनैः।
अग्नयः पार्थ तुष्यन्ति यथा ह्यतिथिपूजनात्॥ 14-101-50(95727)
कपिलायां तु दत्तायां विधिवज्ज्येष्ठपुष्करे।
न तत्फलमवाप्नोति यत्फलं विप्रबोजनान्। 14-101-51(95728)
द्विजपादोदकक्लिन्ना यावत्तिष्ठति मेदिनी।
तावत्पुष्करपत्रेण पिबन्ति पितरो जलम्॥ 14-101-52(95729)
देवमाल्यापनयनं द्विजोच्छिष्टापमार्जनम्।
श्रान्तसंवाहनं चैव तथा पादावसेचनम्॥ 14-101-53(95730)
प्रतिश्रयप्रदानं च तथा शय्यासनस्य च।
एकैकं पाण्डवश्रेष्ठ गोप्रदानाद्विशिष्यते॥ 14-101-54(95731)
पादोदकं पादघृतं दीपमन्नं प्रतिश्रयम्।
ये प्रयच्छन्ति विप्रेभ्यो नोपसर्पन्ति ते यमम्॥ 14-101-55(95732)
विप्रातिथ्ये कृते राजन्भक्त्या शुश्रूषितेऽपि च।
देवाः शुश्रूषिताः सर्वे त्रयस्त्रिंशदरिन्दम॥ 14-101-56(95733)
अभ्यागतो ज्ञातपूर्वो ह्यज्ञातोऽतिथिरुच्यते।
तयोः पूजां द्विजः कुर्यादिति पौराणिकी श्रुतिः॥ 14-101-57(95734)
पादाभ्यङ्गन्नपानैस्तु योऽतिर्थिं पूजयेन्नरः।
पूजितस्तेन राजेन्द्र भवामीह न संशयः॥ 14-101-58(95735)
शीघ्रं पापाद्विनिर्मुक्तो मया चानुग्रहीकृतः।
विमानेनेन्दुकल्पेन मम लोकं स गच्छति॥ 14-101-59(95736)
अभ्यागतं श्रान्तमनुव्रजन्ति
देवाश्च सर्वे पितरोऽग्नयश्च।
तस्मिन्द्विजे पूजिते पूजिताः स्यु-
र्गते निराशाः पितरो व्रजन्ति॥ 14-101-60(95737)
अतिर्थिर्यस्य भग्नाशो गृहात्प्रतिनिवर्तते।
पितरस्तस्य नाश्नन्ति दशवर्षणि पञ्च च॥ 14-101-61(95738)
वर्जितः पितृभिर्लुब्धः स देवैरग्निभिः सह।
निरयं रौरवं गत्वा दशवर्षाणि पञ्च च।
ततश्चापि च्युतः कालादिह चोच्छिष्टभुग्भवेत्॥ 14-101-62(95739)
वैश्वदेवान्तिके प्राप्तमतिथिं यो न पूजयेत्।
चण्डालत्वमवाप्नोति सद्य एव न संशयः॥ 14-101-63(95740)
निर्वासयति यो विप्रं देशकालगतं गृहात्।
पतितस्तत्क्षणादेव जायते नात्र संशयः॥ 14-101-64(95741)
नरके रौरवे घोरे वर्षकोटिं स पच्यते।
ततश्चापि च्युतः कालादिह लोके नराधमः।
श्वा वै द्वादशजन्मानि जायते क्षुत्पिपासितः॥ 14-101-65(95742)
चण्डालोप्यतिथिः प्राप्तो देशकालेऽन्नकाङ्क्षयाः।
अभ्युद्गम्यो गृहस्थेन पूजनीयश्च सर्वदा॥ 14-101-66(95743)
अनर्चयित्वा योऽश्नाति लोभमोहविचेतनः।
स चण्डालत्वमापन्नो दश जन्मानि पाण्डव॥ 14-101-67(95744)
निराशमतिथिं कृत्वा भुञ्जनो यः प्रहृष्टवान्।
न जानाति किलात्मानं विष्ठकूपे निपातितं॥ 14-101-68(95745)
मोघं ध्रुवं प्रोर्णयति मोघमस्य तु पच्यते।
मोघमन्नं सदाऽश्नाति योतिथिं न च पूजयेत्॥ 14-101-69(95746)
साङ्गोपाङ्गांस्तु यो वेदान्पठतीह दिनेदिने।
न चातिथिं पूजयति वृथा भवति स द्विजः॥ 14-101-70(95747)
पाकयज्ञमहायज्ञैः सोमसंस्थाभिरेव च।
ये यजन्ति न चार्चन्ति गृहेष्वतिथिमागतम्॥ 14-101-71(95748)
तेषां यशोभिकामानां दत्तमिष्टं च यद्भवेत्।
वृथा भवति तत्सर्वमाशया हि तया हतम्॥ 14-101-72(95749)
देशं कालं च पात्रं च स्वशक्तिं च निरीक्ष्य च।
अल्पं समं महद्वापि कुर्यादातिथ्यमात्मवान्॥ 14-101-73(95750)
सुमुखः सुप्रसन्नात्मा धीमानतिथिमागतम्।
स्वागतेनासनेनाद्भिरन्नाद्येन च पूजयेत्॥ 14-101-74(95751)
हितः प्रियो वा द्वेष्यो वा मूर्खः पण्डित एव वा।
प्राप्तो यो वैश्वदेवान्ते सोतिथिः स्वर्गसंक्रमः॥ 14-101-75(95752)
क्षुत्पिपासाश्रमार्ताय देशकालगताय च।
सत्कृत्यान्नं प्रदातव्यं यज्ञस्य फलमिच्छता॥ 14-101-76(95753)
भोजयेदात्मनः श्रेष्ठान्विधइवद्धव्यकव्ययोः।
अन्नं प्राणो मनुष्यणामन्नदः प्राणदो भवेत्।
तस्मादन्नं विशेषेण दातव्यं भूतिमिच्छता॥ 14-101-77(95754)
अन्नदः सर्वकामैस्तु सुतृप्तः सुष्ट्वलङ्कृतः।
पूर्णचन्द्रप्रकाशेन विमानेन विराजते॥ 14-101-78(95755)
सेव्यमानो वरस्त्रीभिर्मम लोकं स गच्छति।
क्रीडित्वा तु ततस्तस्मिन्वर्षकोटिं यथाऽमरः॥ 14-101-79(95756)
ततस्चापि च्युतः कालादिह लोके महायशाः।
वेदशास्त्रार्थतत्वज्ञो भोगवान्ब्राह्मणो भवेत्॥ 14-101-80(95757)
यथाश्रद्धं तु यः कुर्यान्मनुष्येषु प्रजायते।
महाधनपतिः श्रीमान्वेदवेदाङ्गपारगः।
सर्वशास्त्रार्थतत्वज्ञो भोगवान्ब्राह्मणो भवेत्॥ 14-101-81(95758)
सर्वातिथ्यं तु यः कुर्याद्वर्षमेकमकल्मषः।
धर्मार्जितधनो भूत्वा पाकभेदविवर्जितः॥ 14-101-82(95759)
देवानिव स्वयं विप्रानर्चयित्वा पितॄनपि।
विप्रानग्राशनाशी यस्तस्य पुण्यफलं शृणु॥ 14-101-83(95760)
वर्षेणैकेन यावन्ति पिण्डान्यश्नन्ति ये द्विजाः।
तावद्वर्षाणि राजेन्द्र मम लोके महीयते॥ 14-101-84(95761)
ततश्चापि च्युतः कालादिह लोके महायशाः।
वेदसास्त्रार्थतत्वज्ञो भोगवान्ब्राह्मणो भवेत्॥ 14-101-85(95762)
सर्वातिथ्यं तु यः कुर्याद्यथाश्रद्धं नरेश्वर।
अकालनियमेनापि सत्यवादी जितेन्द्रियः॥ 14-101-86(95763)
सत्यसन्धो चितक्रोधः शाखाधर्मविवर्जितः।
अधर्मभीरुर्धर्मिष्ठो मायामात्सर्यवर्जितः॥ 14-101-87(95764)
श्रद्दधानः सुचिर्नित्यं पाकबेदविवर्जितः।
स विमानेन दिव्येन दिव्यरूपी महायशाः॥ 14-101-88(95765)
पुरन्दरपुरं याति गीयमानोप्सरोगणैः।
मन्वन्तरं तु तत्रैव क्रीडित्वा देवपूजितः।
मानुष्यलोकमागम्य भोगवान्ब्राह्मणो भवेत्॥ 14-101-89(95766)
दशजन्मानि विप्रत्वमाप्नुयाद्राजपूजितः।
जातिस्मरश्च भवति यत्रयत्रोपजायते॥ ॥ 14-101-90(95767)
इति श्रीमन्महाभारते आश्वमेधिकपर्वणि वैष्णवधर्मपर्वणि एकाधिकशततमोऽध्यायः॥ 101 ॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|